भारोपीयभाषासन्दर्भे ध्वनिविमर्शः
विद्यावाचस्पति डा. सदानन्द झा
व्याकरणविभागाध्यक्षः
लगमा दरभंगा, बिहारः
भारोपीयभाषाचिन्तनं साम्प्रतिकेयुगे नितरामपेक्षते। संगणकीयभाषाविज्ञानस्य कृते ध्वनिविवेचनं अतीवदुष्करम् इति सुविदितम्मेव। तत्र मूल भारोपीयध्वनिनां स्वरूप निर्धारणं कठिनं कार्यमस्ति। डा०सुनितिकुमारचटर्जी-डासुकुमारसेनमहाभागौ आङ्ग्ल-फ्रेंच-जर्मनप्रभृतिग्रन्थाधारेण ध्वनीनां संक्षिप्त स्वरूपं स्वस्वग्रन्थेषु प्रतिपादितवन्तौ। यद्यपि तन्न पूर्णतो निर्दुष्टं तथापि प्रशस्यतरम्। डा. भोलानाथ तिवारिमहाभागाः मूलभारोपीयध्वनीनां स्वरूपमेवमेवादिषुः-
१. स्वरः
a. मूलस्वराः
i. अतिह्रस्वः
ii. ह्रस्वः
iii. दीर्घः
संयुक्तस्वराः
२. अन्तस्थाः
३. व्यंजनानि
a. स्पर्शाः
i. कवर्गः
ii. तवर्गः
iii. पवर्गः
b. ऊष्माः
उपरुक्तेषुभेदेष्वपि तत्र भेदप्रभेदाः परिगणितास्सन्ति। एषु मूलभारोपीयध्वनिषु अतिह्रस्व अँ इत्युदासीनोऽर्धमात्रिकस्वरोवर्तते। अस्योच्चारणमस्पष्टमेव भवति। अत एवायं ह्रस्वार्धस्वरोऽपि कथ्यते। यूरोपीय भाषास्वयं ’Schwa’ इति निगद्यते इति लिख्यते च।
अन्तःस्थास्वरव्यञ्जनयोर्मध्ये तिष्ठन्ति। अत एषां नामान्वर्थम्। इमे कदाचित् स्वरवत् कदाचित् व्यञ्जनवच्च प्रयुज्यन्ते। केचिदिमान् स्वरव्यंजनरूपत्वेन द्वादशधाऽऽमनन्ति। परन्तु नेदं रुचिरम्। तेषां मूलतो षोढात्वात्। प्रयोगे भवतु नाम द्वादशधात्वम्। एतेऽन्तस्थाऽर्धव्यंजन शब्देनाऽपि गद्यन्ते। एषां स्वरूपाणि स्वनन्तार्धस्वरप्रभृतिशब्दैर्व्यपदिश्यन्ते। व्यञ्जनेषु कवर्गस्य त्रयः प्रकाराः आसन्। तत्र “ क् ख ग घ इति प्रथमं प्रकारं सामान्यकवर्गं मन्यन्ते केचित्। केचन च तालुसाहाय्येनोच्चारितं क्य ख्य ग्य घ्य इति प्रथमं कवर्गं स्वीकुर्वन्ति
मूलभारोपीयध्वनिषु ’ह्’ ध्वनेः सत्तायां विवदन्ते विद्वांसः। केचिन्न स्वीकुर्वन्ति। परे मन्यन्ते। अपरे घोषाघोषाभ्यां तस्य द्वैविध्यमामनन्ति। अन्ये च ’स’ ध्वनिमेवोष्माणां वदन्ति न तु हकारमपि। कतिपये पण्डिताः मूलभारोपीयध्वनिषु ख् ग् घ् त् थ् द् ध् झ् इत्यादीनां संघर्षिणा ध्वनीनामपि सत्तामंगी कुर्वन्ति।
अँ, इँ इत्याद्यनुनासिक ध्वनीनाभावः एकाधिकमूलस्वराणां सहप्रयोगस्य विरहः सन्धिः संयुक्तव्यंजनसद्भावश्चेत्यादीनि मूलभारोपीयभाषायाः ध्वनिगतं वैशिष्ट्यं प्रमुख्यापयन्ति।
मूल विदेह अंक / Original issue
Videha Digital Research Archives — preserved releases
All eight archive releases are published and their DOIs are minted.
- gajendra-preeti — 10.5281/zenodo.22754971
- mithila-vajji-anga — 10.5281/zenodo.22754977
- videha — 10.5281/zenodo.22754996
- videha-ejournal — 10.5281/zenodo.22755007
- videha-ejournal.github.io — 10.5281/zenodo.22755014
- videha-literature-festival — 10.5281/zenodo.22755018
- videha-quiz — 10.5281/zenodo.22755026
- videha-sadeha — 10.5281/zenodo.22755033