चम्पूसाहित्ययशो विलासः
(प्रथमोच्छ्वासः)
डा. दीपिका
(स्वतन्त्रलेखिका वेदवती-महाविद्यालयस्य प्राक्तनप्राध्यापिका च)
परिचयः
लेखनस्य द्विविधा शैली आदिकालादेव सन्दृश्यते। तत्र पद्यं भावनाप्रधानम् अपि च गद्यं विचारप्रधानं भवति प्रायेण। ऋग्वेदभारती पद्यस्य आहार्यप्रसाधनमुररीकृत्य समागच्छति तदनु यजुष्-उपनिषद्-सूत्रग्रन्थ-पतञ्जलि-शबर-शङ्कर-वाचस्पति-श्रीहर्ष-चित्सुखाचार्यग्रन्थेषु तथा च नव्यन्यायाश्रित्य आचार्यगङ्गेश-गदाधर-जगदीश-मथुरानाथाद्याचार्यप्रणीतग्रन्थेषु गद्यप्रयोगो दृश्यते।
कालक्रमानुगुणम् एका अभिनवा सन्दृश्यते- इयं विधा भवति चम्पूविधा। आचार्यः दण्डी स्वकीये अनुपमे ग्रन्थे काव्यादर्शे निगदति- गद्यपद्यमयी काचिच्चम्पूरित्यभिधीयते (का.1/31) इत्थं गद्यपद्याश्रितं मिश्रितं काव्यं चम्पू अस्तीति निश्चप्रचम्।
कालनिर्धारणम्
लक्षणनिर्माणं तदैव भवदि यदि क्वचित् लक्ष्यग्रन्थो भवेत्। आचार्यो दण्डी यदि चम्पूकाव्यस्य लक्षणं प्रस्तौति तर्हि निश्चयेन तत्पूर्वं क्वचित् चम्पूकाव्यस्य अस्तित्वं स्यादेव। आचार्यदण्डिनः कालः षष्ठमशताब्द्यां वर्तते। तर्हि निश्चयेन चम्पूतत्पूर्वमेव अस्तित्वे आसीत्। गुप्तकालीनशिलालेखे तु निर्दिश्यते यत् चतुर्थशताब्द्यां निश्चयेन चम्पूकाव्यमासीदिति।
प्रथमं चम्पूकाव्यम्
यद्यपि प्रथमशताब्दीतः चम्पूकाव्यस्यास्तित्वं सन्दृश्यते किन्तु दशमशताब्द्यां आचार्यत्रिविक्रमभट्टेन यत् नलचम्पूकाव्यं रचितं तदेव लक्षणपरिघटितं प्रथमं चम्पूकाव्यम्। तदनु पञ्चदशताब्दीं यावत् सामान्यतया रचनायाः गतिः मन्थरा एव किन्तु षोडशशताब्दीतः अष्टादशशताब्दीं यावत् प्राचुर्येण ग्रन्थरचना जाता। आहत्य 245 रचनायाः उल्लेखो प्राप्यते। तेषु काव्य्षु केचन महनीयाः वर्तन्ते यथा हि-
1. आनन्दकन्दचम्पू-मित्रमिश्र
2. उदयसुन्दरीकथा-सोड्ढल
3. कीर्तिकौमुदी-सोमेश्वर
4. गंगावंशानुचरित-वासुदेवरथ
5. जीवन्धरचम्पू-हरिचन्द्र
6. नलचम्पू-त्रिविक्रमभट्ट
7.नीलकण्ठविजयचम्पू-नीलकण्ठदीक्षित
8. पारिजातहरणचम्पू-शेषकृष्ण
9. भागवतचम्पू-अभिनवकालिदास
10.भागवतचम्पू-चिदम्बर
11.भारतचम्पू-अनन्तभट्ट
12.मदालसाचम्पू-त्रिविक्रमभट्ट
13.यशस्तिलकचम्पू-सोमदेव
14.रामायणचम्पू-भोज
15.वरदाम्बिकापरिणयचम्पू- वरदाम्बिका
इत्थम् अस्मिन् उच्छ्वासे चम्पूकाव्यस्य सामान्यः परिचयः मया प्रदत्तः। अग्रिमे उच्छ्वासे कश्चन् विशेषो परिचयः दास्यते विद्वज्जनतोषाय आमोदविनोदाय चेति शुभम्।
(अनुवर्तते)
अपन मंतव्य editorial.staff.videha@gmail.com पर पठाउ।
विदेह: ३५४ म अंक १५ सितम्बर २०२२ (वर्ष १५ मास १७७ अंक ३५४)|| 87
86 || http://www.videha.co.in/ ISSN 2229-547X VIDEHA
हि ‘a
@ cif)
3३
Ps a
i |, . ग | « ; . | | ; | \ | " | j कि... न : (५ | n if = - i) | | | | “ना = r | ¥ S नम - r’) ‘ & “a i. > . है a 2 a Bee ® « & *© ; 9 Pio gue On 5 oO ' «४५१ « GR Garver i) (©) © ) श्र , ¢ * é q j & XY” हु * 5.२४ ० 2७ (९ ४ हे «' लि 0 eo are eB SU eon) °6,\6" हे & i) >) «Og yr? 4 Q’ & 3) re 4 i ka 2 Peat an के हि i § [5 : 9 ‘ © @ 90 2.0%! ? ह * wo oO -~ Pie ~~ थे a (a) ३ A
Ni iv 4 e . ™ fi Oy | we -
! om | ‘ie Cail था %
४.संस्कृत खण्ड (पृ. ८३-८७) ४.१.डा. after चम्पूसाहित्ययशो विलासः (प्रथमोच्छवासः) (पृ. ८४- U9) 7 |