विदेह प्रथम मैथिली पाक्षिक ई पत्रिका · VIDEHA · ISSN 2229-547X

चम्पूसाहित्ययशो विलासः (षष्ठोच्छ्वासः)

डा. दीपिका · 2022-12-01 · अंक 359

चम्पूसाहित्ययशो विलासः
(षष्ठोच्छवासः)
डा. दीपिका
(स्वतन्त्रलेखिका वेदवती-महाविद्यालयस्य प्राक्तनप्राध्यापिका च)
[चम्पूसाहित्यवाग्विलासस्य षष्ठेऽह्नि भवतां भवतीनां च समेषां हार्दं स्वागतं व्याहृत्य अद्यतनीयविषयवस्तुमादायात्र प्रस्तुताऽस्मि। अद्य महाकविभोजराजपरिचयानन्तरं महाकविभोजराजकृतचम्पूरामायणविषये ग्रन्थानुगुणं विदुषां तत्र भवतां भवतीनाञ्चामोदप्रमोदाय किञ्चित्प्रस्तौमि।]
तत्रादौ सर्वप्रथमं ग्रन्थपरिचयः- ग्रन्थे महाकविभोजराजकृतपञ्चकाण्डानि वर्तन्ते एभिस्सहैव षष्ठमं काण्डम् आचार्य लक्ष्मणसूरि विरचितं वर्तते। ग्रन्थोऽयं यस्य संस्करणस्य समुद्धरणं मया दीयते स तु निर्णयसागरप्रेसतः 1898 तमे वर्षे प्रकाशितः वर्तते। अस्य सम्पादकः आचार्यकाशिनाथपाण्डुरंगः वर्तते।
1. बालकाण्डम्
2. अयोध्याकाण्डम्
3. अरण्यकाण्डम्
4. किष्किन्धाकाण्डम्
5. सुन्दरकाण्डम्
6. युद्धकाण्डम्
उपर्युक्तानि षट्काण्डानि ग्रन्थकारेण लिखितानि अपि च सप्तमं काण्डं श्रीलक्ष्मणसूरिभिः लिखितम इति आचार्याः स्वयमेवामनन्ति। यथा-
साहित्यादिकलावता शनगरग्रामावतंसायित
श्रीगङ्गाधरधीरसिन्धुविधुना गङ्गाम्बिकासूनुना।
प्राग्भोजोदितपञ्चकाण्डविहितानन्दे प्रबन्धे पुनः
काण्डो लक्ष्मणसूरिणाविरचितः षष्ठोऽपि जीयाच्चिरम्॥
अनेन सहैव आचार्यवेङ्कटपण्डितेन लिखितः उत्तरकाण्डोपि वर्तते
बालकाण्डस्य आदौ एव मंगलपद्ये मूलग्रन्थकारः भगवतः गणेशस्य चरणद्वयं स्तौति। स निगदति यत् वेदरूपशाखाव्याप्तौ वेदान्तप्रतिपादितौ श्रीगणेशस्य पादयुगलौ यौ कमलानां सौन्दर्याभिमानं दूरी कर्तुं प्रभवतः अपि च इह जागतिकविविधकायाक्लेशनाशयितुं समर्थौ स्तः तादृशौ श्रीदायकौ गणेशपादाम्बुजौ श्रीविस्तरं कुरुतः इति।
लक्ष्मीं तनोतु नितरामितरानपेक्ष
मङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्
हैरम्बमम्बुरुहडम्बरचौरनिघ्नम्
विघ्नाद्रिभेदशतधारधुरन्धरं नः॥
एवमेव द्वितीये श्लोके ग्रन्थकारः ब्राह्मणसमुदायः स्तवीति।
चम्पूरामायणे पूर्ववर्तिविदुषां ख्यातिख्यापनं करोति। ग्रन्थकारः चित्रकाव्यप्रियो वर्तते। अनेन सहैवास्मिन् चम्पूकाव्ये श्लेषस्य प्राचुर्येण प्रयोगो दृश्यते। प्रसादगुणस्य निदर्शनम् अपि च ऋतुवर्णनं बहुशः दृश्यते। अस्य ग्रन्थस्य अनेके पाठाः मिलन्ति अतः क्वचित् पाठभेदोऽपि दृश्यते। वाल्मीकिरामायण-चम्पूरामायणयोर्मध्ये अनेकशः श्लोकसाम्यमपि प्राप्यते यथा हि-
क्रमः
वाल्मीकिरामायणम्
चम्पूरामायणम्
सन्दर्भः
1.
'गच्छता मातुलकुलं भरतेन तदानघः ......प्रीतिपुरस्कृतः'
'गच्छता दशरथेन ......इत्यादि'
अयोध्याकाण्ड
2.
'प्रविश्य तु महारण्यं .....आश्रममण्डलं'
'प्रविश्य विपिनं ........ इत्यादि'
अरण्यकाण्ड
3.
'सतां पुष्करिणी......आकुलेन्द्रियः'
'सतां सतां ......जातकम्पः'
किष्किंधाकाण्ड
4.
'ततो रावणनीतायाः......पथि'
'ततो हनूमान.....चारणानां'
सुन्दरकाण्ड
क्रमशः..
अपन मंतव्य editorial.staff.videha@gmail.com पर पठाउ।
248 || http://www.videha.co.in/ ISSN 2229-547X VIDEHA
विदेह ३५९ म अंक ०१ दिसम्बर २०२२ (वर्ष १५ मास १८० अंक ३५९)|| 247

हि ‘a

! om | ‘ie Cail था %

Suggested citation: डा. दीपिका. “चम्पूसाहित्ययशो विलासः (षष्ठोच्छ्वासः).” Videha — First Maithili Fortnightly eJournal, issue 359, 2022-12-01. https://www.videha.co.in/research/2022/359/चम्पूसाहित्ययशो-विलासः-षष्ठोच्छ्वासः.htm

मूल विदेह अंक / Original issue