वि दे ह विदेह Videha বিদেহ http://www.videha.co.in विदेह प्रथम मैथिली पाक्षिक ई पत्रिका Videha Ist Maithili Fortnightly e Magazine विदेह प्रथम मैथिली पाक्षिक ई पत्रिका Read in your own script
Roman(Eng)
Gujarati
Bangla
Oriya
Gurmukhi
Telugu
Tamil
Kannada
Malayalam
Hindi
नव अंक देखबाक लेल पृष्ठ सभकेँ रिफ्रेश कए देखू।
Always refresh the pages for viewing new issue of VIDEHA.
शास्त्रीयचिन्तनाधुनिकजीवनयोर्मिथः सम्बन्धः।

विद्यावचस्पति डा. सदानन्दझाः[1]
===============================================
कुञ्जिकाशब्दाः-
सकारात्मकं चिन्तनम्, राष्ट्रनिर्माणम्, विश्वकल्याणम्, संस्कृतवाङ्मयम्।
-------------------------------------------------------------------------------------------------------------------
शोधसारः-
निखिलेऽस्मिन् विश्वे शक्तेर्महनीयं स्थानं विद्यत एव। सा शक्तिः कायिकी स्याद्वाचिकी स्यादाहोस्विन्मानसिकी स्यात्। कथं शक्ति एतादृक् महनीयं स्थानं भजते? उत्तरम् अस्ति सुस्पष्टमेव। जगति सर्वत्र प्रतिस्पर्द्धा दृश्यते। वस्तुनः न्यूनता उपयोगकर्तॄणां आधिक्यं तु दृश्यत एव। एवमेव कारणं यत् साम्प्रतं जगति सर्वत्र अशान्तिः विक्षोभः आतङ्कः लुण्ठनं स्तेयं हिंसा अनाचारः दुराचारः अत्याचारश्च प्रवर्तमानः विश्वमानसं विभीषयन्ति, निरागसः बालाः युवानः वृद्धाश्च निहन्यन्ते अबलाऽपह्रियन्ते पथिगृहे यात्रायाञ्च जनाः आत्मानमसुरक्षितमनुभवन्ति। मानवीयः विश्वासः खण्डितः दृश्यते। नैतिकमूल्यानि जीवनादपाकृतानि भवन्ति। धर्ममुपेक्ष्यार्थकामञ्च समाद्रियेते।
अस्माकं पुरतः विराजते दृढतरोऽयं प्रश्नः यत् शक्तिः एव समस्यायाः कारणभूता अथवा अस्ति कश्चन प्रच्छन्नः शत्रुः यः अशान्तिं जनयति, विक्षोभमुत्पादयति, आतङ्कं वर्द्धयति, अनाचारदुराचारादीन् प्रस्रयति। यद्यस्ति तर्हि तस्य निरासः कथं भवितुमर्हति येन अस्माकं राष्ट्रस्य निर्मातारः यूवानः विकसितराष्ट्ररूपे भारतस्य स्थितिं नीत्वा विश्वकल्याणमार्गप्रशस्तं करिष्यन्तीत्येव एतस्य शोधपत्रस्य विषयवस्तुरिति।
==================================================
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा॥
भूमण्डलीकरणस्य इह युगे सर्वत्र प्रतिस्पर्द्धा दरीदृश्यते। सर्वत्र जनाः स्वकीयकार्यसिद्ध्यर्थं सर्वथा यत्नं कुर्वन्ति। न हि सर्वत्र जयश्रीप्राप्तिः स्वाभाविकी। तर्हि मनसि विक्षोभः संजायते। जनाः सर्वथा अन्यान् उपालम्भयन्ति। अवसादग्रस्तो भूत्वा स्वकीयकर्म अपि ते न कुर्वन्ति। ते चिन्तयन्ति यत् किम् अनेन्? किमेतस्य फलम्? फलतः दिनानुदिनं ते इतोऽपि नैराश्यतां प्राप्नुवन्ति। ते शक्ति रहिताः सन्ति इति न। यतो हि सहजा शक्तिः तु जीवमात्रस्य कृते भवति तत्रापि मनुष्यानां कृते तु विशेषरूपे भवति। मनुष्ये तु सहजा सहैव उत्पाद्याप्रभृतिशक्तयः अपि भवन्ति। गुरुजनानुकम्पया, अभ्यासवशात् अपि सन्दर्भितकार्ययोग्यता भवितुमर्हति। अस्माकं महनीयग्रन्थेषु नैकानि उदाहरणानि मिलन्ति। यत्र जनाः अभ्यासद्वारा कठिनतमं कार्यं विधाय जीवनसमराङ्गणे जयं प्राप्तवन्तः। तर्हि शक्तिर्नास्ति अवसादादीनां कारणरूपा इति मन्ये। तर्हि किमन्यत्?
उच्यते “मन एव मनुष्याणां कारणं बन्धमोक्षयोः” । किं नाम् मनः? संकल्पविकल्पात्मकं मनः भवति। अनेन एव प्रस्तूयते विकल्पाः। तदनु बुद्ध्या निर्धार्यते यत् एतत् उचितम् एतत् न उचितम् इति।
एवमेव सा शक्तिः सकारात्मक अथवा नकारात्मकमार्गेषु कार्यं करोति। यदि जनाः सकारात्मकचिन्तनद्वारा प्रेरितो भूत्वा कार्यं सम्पादयन्ति तर्हि सर्वत्र सुख-शान्तेरवाप्तिर्भवति अपरं चिन्तनं तानवनति मार्गं दर्शयति इति।
एतस्मात् कारणात् यजुर्वेदे शिवसङ्कल्पसूक्ते रथरूपकमाध्यमेन ऋषयः जीवनं कथं यापनीयमिति निदर्शयन्ति। यथा प्रशिक्षितः रथचालकः अश्वनियन्त्रणपूर्वकं रथं नयति तथैव उचितानुचितं मार्गं चित्वा सम्यक् रूपेण गन्तव्यस्थानं गन्तव्यम् । अतो अस्माकं सङ्कल्पः[2] शिवमयः नाम कल्याणकरः स्यात्। अत्र सकारात्मकचिन्तनस्य बीजम् अन्तर्निहितं विद्यत एव। यतो हि यदि सकारात्मकं चिन्तनम् एव न स्यात् तर्हि कथं उचितानुचितः विवेकः स्यात्।
इत्थं तु स्पष्टं यत् सकारात्मकं चिन्तनम् एव राष्ट्रस्य उन्नतेः आवश्यकम्। किं सकारात्मकचिन्तनेन भवतुमर्हति इति विशदरूपेण यदि विवेचना कुर्यात्तु इतो स्पष्टता समापतिष्यति। हिन्द्याम् एकं कथनम् अस्ति “मन के हारे हार है मन के जीते जीत”। साधु एव उक्तम् अत्र केनचित्। एतत् सकारात्मकं चिन्तनं कथमागच्छेत् इति विचारणीयम्। एतस्य कृते पृष्ठभूमि रूपे कानिचित्तत्वानि भवन्ति तद्द्रष्टव्यमिति।
तत्र आदौ धैर्यस्य अवस्थितिः भवति। जीवने साफल्यार्थं धैर्यस्य भूमिका तु विदितम् एव। उक्तम् अपि नीतिकारैः “दरिद्रता धीरतया विराजते, कुभोजनं चोष्णतया विराजते[3]”। तदनु आशा समापतति। आशा सर्वथा बलवती भवति। यदि आशा स्यात्तर्हि सहजतया सकारात्मकं चिन्तनं भवति। महाभारते यदा शल्यस्य कृते सेनापतिभारनिमित्तम् अवसरः ददाति दुर्योधनः तदा शल्यः जानाति यत् वयं किं कर्तुं प्रभवामः तथा स आशामंगीकृत्य कथयति-
“ गते द्रोणे गते भीष्मे कर्णे च समितिंजये।
आशा बलवती राजन् शल्यो जेष्यति पाण्डवान्॥[4]“
सन्तुष्टिः अपि परमावश्यकी। यदि सन्तुष्टिः न स्यात्तर्हि सकारत्मकं चिन्तनं कथमपि नागच्छेत् इति। उक्तम् अपि मनीषिभिः ’ सन्तोष परमं सुखम्।’ अनन्तरमागच्छति प्रेरकतत्वानि अस्माकं परितः यादृग्वातावरणं भवति तथैव चिन्तनमपि जायते। अतो सर्वथा गुरुजनानां परितः एव वासः स्यात् यत्र सर्वथा श्रेयस्करं चिन्तनम् एव जायते। तदनु चिन्तनं लक्ष्यानुरूपं भवति अतो लक्ष्यस्य महती भूमिका भवति सकारात्मकचिन्तनस्य कृते। अर्जुनः यदा शरवेधनपरीक्षायाम् आसीत् तदा स केवलं कल्पितखगस्य नेत्रम् एव पश्यन् आसीत्। यदि स एवं न कृतवान् स्यात् तर्हि तत्र नैराश्यताम् एव आगत्य विच्छृङ्खलत्वस्यानयनं करिष्यतीति निश्चप्रचः। लक्ष्येन सहैव सकारात्मकचिन्तनस्य कृते आवश्यकता विद्यते समुचितादर्शस्य। यत् कर्तुम् इच्छति जीवने तस्य कृते केचित् नियमाः स्युः अन्यथा विच्छृङ्खलत्वम् आगच्छति। आदर्शेन सह जीवनस्य विविधेषु स्तरेषु साफल्यमपि आवश्यकम्। अन्यथा नैराश्यम् आगच्छति। समग्ररूपेण नीतिनियमानुसारेण यदि कार्यं न सिध्यति तर्हि पुनरावलोकनं स्यात्। उक्तमपि ’ यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः’।
अत्र ध्यातव्यम् अस्ति साकल्येन विश्वकल्याणम् एव अभीष्टम् । तत्रैव अङ्गतया जनानाम् अथवा राष्ट्रस्यविकासः इति। एतदर्थं सकारात्मकं चिन्तनेन सहैव ’ऋत्’ इत्यस्यानुगमनं सर्वथा आवश्यकम् । यतो हि ऋत् इत्यस्यावधारणा अतीवमहनीया। एनां विहाय जनानां, राष्ट्राणामुत् विश्वस्य कल्याणं नैव भवितुमर्हति। अत्र ऋत् इति नैतिक नियमानां अनुपालनं न केवलं जनानां कृते आवश्यकम् अपितु तत्तद्देशेषु याः नियामकसंस्थाः विद्यन्ते तासां कृते अपि। अद्यत्वे अस्माकं देशे भ्रष्टाचरणविरोधि आन्दोलनम् प्रचलितम् अस्ति। तत्र मूलतः संस्थासु तत्तन्नियमानामनुपालनं न भवति, कर्मकराः स्वकीयं कार्यं वोढुं नेच्छन्ति इति एव कारणम्। अतो संस्थानां कृते ऋत् इत्यस्यावधारणायारनुपालनम् अतीव महत्वपूर्णम् इति।
यदि उक्त ऋत् इत्यस्यानुपालनं स्यात्तर्हि कुत्र विप्रतिपत्तिः? कुत्र असहिष्णुता? अहमेव श्रेष्ठः इति मन्यमानाः जनाः सर्वत्र असहिष्णुतां जनयन्ति।मूलतया संघर्षस्य इदमेव कारणम्। मदीयः धर्मः श्रेष्ठतरः इति धर्मोन्मादस्य कारणम्। अस्माकं महर्षयः सर्वेषां समाधानपरकं वाक्यं पूर्वमेवोद्घोषितवन्तः सन्ति।
“ एकं सद् विप्रा बहुधा वदन्ति।“
पुष्पदन्तेन शिवतोषार्थं स्तुतिं रचयन् नूनमेव जनहितार्थं निगदितवान्-
रुचीनां वैचित्र्यादृजु कुटिलनानापथजुषाम्,
नृणामेको गम्यस्त्वमसि पयसामर्णव इव।
उक्तम् अत्र तेन उक्तं यत् विविधनदीनां जलम् यथा अब्धिमध्ये निमज्जति तथैव विविधमतानां स्थितिः ज्ञेया इति।
निष्कर्षः-
विविधतापदग्धाः जनाः सर्वथा स्वश्रेयार्थं यतन्ति। तत्र जीवनसमराङ्गणे सकारात्मकचिन्तनस्य महती अपेक्षा वर्तते। यतो हि अद्यत्वे फ्रस्टेशन नाम नैराश्यं महतीव्याधिरूपे अस्मान् पुरतः विद्यते। यस्याः समाधानं सकारात्मचिन्तनेन् एव सम्भवति। यदा जनाः एकवारं नैराश्यं प्राप्नुवन्ति तदनु तत्रैव बद्धाः भवन्ति। तेषां निवारणे सति एव राष्ट्रस्य समुन्नतिः सम्भवा। यतो हि युवानः देशस्य आधाररूपाः। यदि ते एव नैराश्यं भजन्ते तर्हि राष्ट्रस्य का गतिः? अस्तु ऋत् प्रभृत्युक्तोपायद्वारा जनाः सर्वथा सकारात्मकं चिन्तनं विधाय आत्मोन्नतिसहैव राष्ट्रोन्नतिपुरस्सरं विश्वकल्याणं कुर्युरित्येव एतस्य पत्रस्याभीष्टम्। यजुर्वेदे राष्ट्रमंगलरूपे अस्मन्मनीषिभिरपि भणितम्-
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूर इषव्योति व्याधी महारथो जायताम्। दोग्ध्री धेनुर्वोढानड्वानासुः सप्तिः पुरन्ध्रिर्योषा जिष्णू रथेष्टा सभेयो युवास्य यजमानस्य.....।
॥शम्॥
सन्दर्भाः
· श्रीमद्भगवदगीता शाङ्करभाष्य, प्रकाशनस्थान-गीताप्रेस गोरखपुर वर्ष-2008
· श्रीमद्भगवदगीता (हिन्दी अनुवाद) प्रकाशन स्थान- गीताप्रेस गोरखपुरम वर्ष-2009
· Vidyābhūṣaṇa, Rājendranātha. Kālidāsa Granthāvalī. Kolkata: Basumati, (7th Edition).
· Chakrabarti, Mohit (1997), “Value Education changing Perspectives”, New Delhi, Kanishka Publishers, Distributors
· Gupta, N.L. (1997), “Educational Ideals and Institutions in Mahabharata”, New Delhi : Mohit Publications.
· Kondada Ramayya, P. (1997) - “The light of Ramayana”, Hyderabad : Arsha Vijnana Trust.
· Kulshrestha, S.P. (1969) - “Test and Manual for a test of Democratic Values”, Lucknow: Indian Psychological Corporation.
· Venkataiah N. (1988) - “Value Education”, New Delhi: A.P.H Publishing Corporation.
· Google.co.in (google search)
[1] व्याकरणविभागाध्यक्षः, ज.ना.ब्र.आ.सं.म.वि.लगमा, दरभंगा, बिहारः| प्राक्तनशिक्षाविद् सदस्यः भारतसर्वकाराधीनः
[2] सुसारथिरिवरश्वान्निवयन्मनुष्यान्नीयतेभिः सुभिर्वाजिन इव।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसंकल्पमस्तु। शिवसंकल्पसूक्तम्, यजुर्वेदे।
[3] नीतिग्रन्थादुद्धरितः।
[4] महाभारतात्।
VIDEHA MAITHILI SANSKRIT TUTOR- XXXII
संस्कृत शिक्षा च मैथिली शिक्षा च- ३२
(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् - हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)
-गजेन्द्र ठक्कुरः
(आगाँ)
ACKNOWLEDGEMENTS: chamu krishna shashtry, janardan hegde, vinayak hegde, sudhishtha kumar mishra, shravan kumar, kailashpati jha, H.N.VISHWAS AND other TEACHERS.
द्वात्रिशत्तमः पाठः
वयं सङ्खयासु लिंगभेदः इति विषये ज्ञातवंतः एकम द्वे इत्य अन्ययोः विशेष अभ्यास अपि कृतवंतः।
अहं ग्रामः इत्यादि शब्दानि वदामि भवन्तः एकम्/ एकः/ एका इत्येतेषु उचितं शब्दं योजयित्वा पुनः वदन्तु।
यथा ग्रामः/ एकः ग्रामः/ ग्रंथालयः/ विद्यालयः/ घटः
एका शाटिका/ घंटा/ विद्यार्थी/ घटी/ कथा/ विद्यार्थिनी
एकं राज्यम्/ सुभाषितम्
अहम् अस्वस्थम् अस्मि। अतः बर्हिगन्तुम् इच्छामि। कृपया अनुमतिं ददातु।
एकः अस्वस्थः अस्ति। सः एकः गन्तुम् इच्छति। अस्तु। गच्छतु।
कति छात्राः गच्छन्ति।
एकः छात्रः गच्छति।
पूर्वतन् पाठे द्वि शब्दस्य स्थाने द्वयम् इति उपयुज्य सौलभ्यं सम्पादितवंतः अभ्यासं अपि कृतवंतः। मार्गे वाहनद्वयं गच्छति
एतानि कानि
तानि पुष्पाणि
एकम्/ द्वे/ त्रीणि
त्रीणि पुष्पाणि सन्ति।
कति पत्राणि सन्ति। त्रीणि।
कति फलानि सन्ति।
एते के। ते चमषाः
त्रयः चमषाः सन्ति।
कति सुधाखण्डाः/ पुरूषाः/ सैनिकाः सन्ति
एताः काः/ ताः पत्रिकाः
तिस्रः पत्रिकाः सन्ति
एताः काः/ ताः संचिका
तिस्रः संचिकाः सन्ति/
कति कपाटिकाः सन्ति। तिस्रः।
तिस्रः/ कूप्यः/ घट्यः/ लेखन्यः/
अहं वदामि भवन्तः अनुवदन्तु
त्रीणि/ त्रयः/ तिस्रः
इदानीम् अहम् शब्दान् वदामि भवन्तः उचितान् शब्दं योजयन्तु तत्र।
त्रयः बालकाः– पुरूषाः सुधाखण्डाः, वस्त्रकटाः मार्गाः
तिस्रः लेखन्यः, शाटिकाः, कूप्यः,
त्रीणि गृहाणि, वाहनानि,
एतेषाम् उपयोगं कृत्वा वाक्यानि वदामः
पेटिकायां तिस्रः संचिकाः सन्ति।
ग्रामे त्रयः देवालयाः सन्ति
अहं तिस्रः भाषाः जानामि।
प्रयागे तिस्रः नद्यः सम्मिलन्ति।
शिवस्य त्रीणि नेत्राणि सन्ति।
पर्णम्– पर्णानि
कति पर्णानि सन्ति– चत्वारि पर्णानि सन्ति
चत्वारि फेनकानि सन्ति
चत्वारि कङ्कणानि सन्ति
चषकाः– चत्वारः चषकाः सन्ति।
चत्वारः बालकाः सन्ति।
चत्वारः चमषाः सन्ति।
चतस्रः– चतस्रः लेखन्यः सन्ति।
अङ्कन्यः सन्ति
पञ्चानन्तरं संख्यानां लिङ्गभेदः नास्ति। यथा पञ्चबालकाः गच्छन्ति–पञ्चबालिकाः पठन्ति। पञ्चवादनानि सन्ति। पञ्चानन्तरं संख्यानां लिङ्गभेदः नास्ति।
- किं भवता कुशलि वा
- भवान् ह्यः कुत्र गतवान् आसीत्।
- अहं ह्यः एकं चलनचित्रं द्रष्टुं गतवान् आसम्। तत्र नायकद्वयम् आसीत्।
- किं भोः। एकापि नायिका नासीत् वा
- आसीत् भोः। नायिकाद्वयम् आसीत्।
- नायक द्वयम्। नायिका द्वयम्। चत्वारिमुख्यपात्राणि आसन्
- एका खलनायकः अपि आसीत्। तस्य चत्वारः अनुचराः आसन्।
- नायिकायाः एकापि सखी न आसीत् वा।
- आसन् भोः। चतस्रः सख्यः आसन्। परंतु तिस्रः सख्यः खलनायकस्य त्रयः अनुचराः एवं षडजनाः भृताः भवन्ति
- इत्युक्तो अन्ते चत्वारि पात्राणि अवशिष्टानि
- परन्तु चित्रम् उत्तमं चित्रम्।
- तर्हि अहं श्वः अवश्यं पश्यामि।
- अवश्यं पश्यतु
- भवान् पत्रं पठितवान् वा
- सम्यक् पठितवान्
- तर्हि तद् विषये प्रश्नं पृच्छामि वा– पृच्छतु
- कति वेदाः सन्ति
- चत्वारः वेदाः सन्ति
- शिवस्य कति नेत्राणि सन्ति
- शिवस्य त्रीणि नेत्राणि सन्ति
- रामस्य कति पुत्राः सन्ति
- रामस्य पुत्रद्वयम् अस्ति।
- त्रयः गुणाः के
- सत्व, रजस्, तमो गुणाः
- दशरथस्य कति पत्न्यः सन्ति
- दशरथस्य तिस्रः पत्न्यः आसन्
- दुर्योधनस्य भगिन्याः काः
- दुर्योधनस्य दुःशला एकायो भगिनी।
- महिलापर्व नाटके कति नायिकाः सन्ति
- महिला पर्व नाटके चतस्त्रः नायिकाः सन्ति
- तर्हि भवता सम्यक् पठितम्
सुभाषितम्
यस्य नास्ति स्वयं प्रज्ञा
शास्त्रं तस्य करोति किम्?
लोचनाभ्यां विहीनस्य
दर्पणः किं करिष्यति ॥
दर्पणः मानवेभ्यः प्रतिबिम्बं प्रदृश्य अलंकारादि विषये बहु उपकारं करोति। परंतु लोचनाभ्यां विहीनः दर्पणतः लाभं स्वीकर्त्तुं न शक्नोति। एवमेव लोके शास्त्राणि बहूनि उत्तमाणि विचारानि बोधयन्ति। प्रजाहीनः शास्त्रतः लाभं प्राप्तुं न शक्नोति। प्रज्ञावान् शास्त्रतः महानतं लाभं प्राप्य जीवने संतोषम् अनुभवन्ति। यथा अंधः दर्पणतः लाभं स्वीकर्त्तुं न शक्नोति तथैव प्रज्ञाहीनः शास्त्रं लाभं प्राप्तुं न शक्नोति। अतः शास्त्रं सुषुक्ष्म्या बुध्या पठनीयम्।
कथा
रोहिदासः कश्चन् चर्मकारस्य पुत्रः। सः गंगानद्याः तीरे वसति स्म। सः चर्मकारस्य पुत्रः इति कारणतः स्वजीवने वृत्तिम् अपि स्वीकृतवान् चर्मकारवृत्तिमेव। पादरक्षा निर्माणं करोति - विक्रयणं करोति– स्वजीवनं निर्वहति। परन्तु सः हरिभक्तः। धर्मिष्ठः। तत् कारणतः सर्वदा हरिनाम भजति स्म। पादरक्षानिर्माण समये अपि सः हरिनाम वदति स्म। एतत् कारणतः सः प्रसन्नः शान्तः आसीत्। सः आनन्दपूर्णः आसीत्। सर्वदा व्यवहारसमयेपि सः आनन्दपूर्णः भवति स्म। तत्कारणतः जनाः वदन्ति स्म– एषः आत्मानन्दं प्राप्तवान्। अतः एव सर्वदा आनन्दपूर्णः भवति। तस्य बहवः शिष्याः आसन्। एकः धनिकः धर्मिष्ठः शिष्यः आसीत्। सः चिंतितवान् मम गुरूः क्षुद्रं पादरक्षा निर्माणं करोति- एतेन् जीवनं करोति। एवं न भवितव्यम्। सः जीवने उत्तम वृत्तिम् आश्रयेत्। एतेन जीवनं कुर्यात्। इति चिन्तयति। सः एकम् उपायं चिन्तयति। गुरोः समीपम् आगच्छति–गुरो अहं श्वः तीर्थयात्रां गमिष्यामि। मम समीपे एकः निकषः अस्ति। तम निकषम् अहं भवतः गृहे स्थापयामि। एक मासानन्तरं प्रतिस्वीकरोमि निकषः विशिष्टः अस्ति। निकषेन् सह यदि अन्यः लोहः भवति तर्हि सः लोहः अपि स्वर्णमयः भवति। भवान् एतस्य निकषस्य उपयोगं कर्त्तुम् अर्हति। इति उक्तवान्। रोहिदासः अपि अङ्गीकृतवान्। शिष्यः स्वगृहतः निकषं आनीय गुरोः गृहे कोणे स्थापितवान्। तीर्थयात्रार्थं शिष्यः गतवान्। एकमासानान्तरं प्रत्यागतवान् सः चिन्तयति। मम गुरूः इदानीं धनिकः अस्ति। तस्य गृहे यथेष्टं धनम् अस्ति। तस्य गृहम् अपि इदानीं भव्यं जातम् अस्ति। एवं चिन्तयति। सः गुरोः गृहम् आगच्छति। पश्यति। प्राचीनमेव गृहम्। गुरूः अपि तथैव अस्ति। तदैव कार्यं कुर्वन् अस्ति। पादरक्षायाः निर्माणं कुर्वन् अस्ति। हरिनाम जपन् अस्ति। शिष्यः गुरोः समीपे आगत्य पृच्छति। गुरोः अहम् एकम् निकषं दत्तवान्। सः निकषः कुत्र अस्ति। गुरः किञ्चित इव स्मरणं कृतवान् इव चिन्तयित्वा वदति–शिष्यः सः निकषः कुत्र स्यात् भवान् यत्र स्थापितवान् तत्रैव स्यात् अन्वेषणं करोतु। एषः शिष्यः स्वयं यत्र स्थापितवान् तत्र गत्वा पश्यति- सः निकषः तत्रैव अस्ति। यथा स्थापितवान् तथैव अस्ति। ततः एव शिष्यः गुरोः मुखं पश्यति। सः गुरूः आनन्दपूर्णः अस्ति। मुखे आनन्दकान्तिः दृश्यते। समग्र गृहम् आनन्दपूर्णम् अस्ति। तदा गुरूः एव वदति। वत्स– निकषस्य उपयोगेन् अहं किं वा करोमि–सुवर्णं कुर्याम्- सुवर्णेन मम कः लाभः। अकस्मात् सुवर्ण निर्मतिः भवति चेदपि– गृहे सुवर्णं धनादिक अस्ति चेदपि तस्य रक्षण विषये मया चिंतनीयम्। परन्तु सुवर्ण लोभकारणतः तस्य रक्षणादिविषये चिन्तामग्नः भवितुम् अहं न इच्छामि। मम आनन्दपूर्णस्थितः पतितुम् अहं न इच्छामि। अतः मम जीवने सुवर्णस्य निकषस्य आवश्यकताएव नास्ति। तदा शिष्यः रोमांचितः भवति।
एवं सरलजीवनं करोति चेदेव आनन्दपूर्णः भवति मनुष्यः। तर्हि अहम् अपि निकषेन् उपयोगं न स्वीकरोमि- निकषं गंगा नद्यां क्षिपामि। मम अपि जीवने निकषात् प्रयोजनं मास्तु। इति चिन्तयित्वा सः निकषं नद्यां क्षिपति। अनन्तरं गुरोः समीपे वदति- गुरो भवान् ममापि तम आनन्दं प्राप्तुं कः उपायः इति बोधयतु– अनन्तरं शिष्यः अपि स्वजीवनं कर्मयोगमयं करोति- हरिनामजपं सरलां वृत्तिम् आश्रित्य जीवनं करोति। श्रेष्ठः भवति।
संस्कृत अनुवाद मैथिली अनुवाद अंग्ेजी अनुवाद
|
अम्ब, अहं क्रीडितुं गच्छामि। |
|
Mother, I am going out for playing. |
|
शीघ्रं प्रत्यागच्छतु। |
|
Come back quickly. |
|
बहु विलम्बेन मा आगच्छतु। |
|
Don’t be too late. |
|
पितः, अत्र भवतः हस्ताङ्कनम् आवश्यकम्। |
|
Father, your signature is necessary here. |
|
तत् अत्र आनयतु। |
|
Bring it here. |
|
भवता बहु एव न्यूनाः अङ्काः प्राप्ताः एतस्यां परीक्षायाम्। |
|
You’ve scored very low marks in this examination. |
|
शिक्षकः सम्यक् न पाठयति एव। |
|
The teacher does not teach well. |
|
भवान् मां पूर्वं किमर्थं न उक्तवान्? |
|
Why didn’t you tell me earlier? |
|
किम् अभवत्? किमर्थं रोदनम्? |
|
What happened? Why do you cry? |
|
एषः सोपानतः पतितवान्। |
|
He fell from the staircase. |
|
अम्ब, अत्र वेदना भवति। |
|
Mother, it’s paining here. |
|
आगच्छतु, औषधं लेपयामि। |
|
Come, I will apply some medicine. |
|
गत्वा शयनं करोतु। |
|
Go to bed now. |
|
एतानि वस्त्राणि परिवर्तयतु। |
|
Change these clothes. |
|
अम्ब, मम समवस्त्रं कुत्र अस्ति? |
|
Mother where is my uniform? |
|
कपाटिकायां पश्यतु। |
|
See in the cupboard. |
|
पितः, मम कृते एतादृशं क्रीडनकम् आवश्यकम्। |
|
Father, I want a toy like this. |
|
अस्तु, पश्यामः। |
|
Okey. We will see. |
|
अम्ब, वेणीबन्धं करोतु, शालायाः विलम्बः भवति। |
|
Mother plait my hair, it’s getting late for school. |
|
स्नानं कृतवान् किम्? |
|
Did you take bath? |
|
हस्तौ सम्यक् प्रक्षालयतु। |
|
Wash your hands properly. |
|
प्रथमं शिरोमार्जनं करोतु। |
|
First dry your hair. |
|
आर्द्रवस्त्रं मा धरतु। |
|
Don’t wear wet clothes. |
|
युतकस्य कुड्मान् योजयतु। |
|
Button up your shirt. |
|
गृहपाठः समाप्तः किम्? |
|
Have you finished your homework? |
|
तर्हि प्रथमं गृहपाठं समापयतु। |
|
Then first finish your homework. |
|
भोजनसमये आह्वयामि, गच्छतु इदानीम्। |
|
Go now, I shall call you when it’s time to eat. |
|
अम्ब, अद्य विद्यालये किम् अभवत् जानाति किम्? |
|
Mother do you know what happened in school today? |
|
वदतु भवती। |
|
You tell me. |
|
शालास्यूतं स्वस्थाने स्थापयतु। |
|
Keep the school bag at it’s place. |
|
भवान् उत्तमः बालः। |
|
You are a good boy. |
|
भवान् एतावत् पर्यन्तं कुत्र आसीत्? |
|
Where were you till now? |
|
अत्रैव आसम्। |
|
I was very much here. |
|
मित्रेण सह गतवान् आसम्। |
|
I had gone with my friend. |
|
अध्ययनं किमपि नास्ति किम्? |
|
Don’t you have anything to study? |
|
परीक्षारम्भः कदा? |
|
When does the examination begin? |
|
पितः, मम एकं नूतनं युतकम् आवश्यकम्। |
|
Father, I want a new shirt. |
|
गतसप्ताहे एकं क्रीतवान् खलु। |
|
You bought one in the last week, didn’t you? |
|
निखिल, आपणतः कतिचन वस्तूनि आनयति किम्? |
|
Nikhil, will you bring a few things from the shop? |
|
वस्तूनि स्वस्थाने स्थापनीयानि इति कतिवारम् उक्तवती? |
|
How many times did I tell you to keep things in their respective places? |
|
अद्य महाविद्यालयं न गच्छति किम्? |
|
Are you not going to college today? |
|
न, अद्य सर्वे मिलित्वा विजयस्य गृहं गच्छामः। |
|
No, today we are all going to vijay’s home. |
|
किं निमित्तम्? |
|
For what purpose? |
|
परीक्षायां तस्य प्रथमक्रमाङ्कः आगतः अतः सहभोजनम् अस्ति। |
|
He stood first in the examination so there’s a get–together. |
|
अम्ब, मम सख्याः दूरभाषा आगता आसीत् किम्? |
|
Mother did my friend ring me up? |
|
न, अद्य कस्यापि दूरभाषा न आसीत्। |
|
No, nobody telephoned today. |
|
रजकः वस्त्राणि नीतवान् किम्? |
|
Did the washerman take away the clothes? |
|
वस्त्राणि शुष्कयितुं प्रसारयतु। अद्यतन दिनपत्रिका कुत्र अस्ति? |
|
Spread out the clothes to dry. Where is today's newspaper? |
|
पितरम् एकवारम् आह्वयतु। |
|
Call father once. |
|
एतत् शाकं कर्तयति किम्? |
|
Will you cut this vegetable? |
|
कृपया एतत् क्षिपतु। |
|
Please throw this away. |
|
एकम् आसन्दम् आनयति किम्? |
|
Will you bring a chair? |
|
एतत् किञ्चित् कालं गृह्णातु। |
|
Hold this for a little while. |
|
दीपं ज्वालयतु। |
|
Switch on the light. |
|
दीपं निर्वापयतु। |
|
Switch off the light. |
|
कोलाहलं मा करोतु। |
|
Don’t make noise. |
|
द्वारे कः अस्ति इति पश्यति किम्? |
|
Will you see who is at the door? |
|
सन्ध्या आगतवती, द्वारम् उद्घाटयतु। |
|
Sandhya has come, open the door. |
|
अहं महाविद्यालयं गच्छामि। |
|
I am going to college. |
|
यानं वेगेन मा चालयतु। |
|
Don’t drive the vehicle too fast. |
|
पितः, श्र्वः तत्र गमिष्यामः किम्? |
|
Father, shall we go there tomorrow? |
|
तद्विषये मातरं पृच्छतु। |
|
Ask mother about it. |
|
भवान् किं कुर्वन् अस्ति? |
|
What are you doing? |
|
भवती अत्रैव उपविशतु। |
|
You sit here. |
|
मम प्रत्यागमनपर्यन्तम् अत्रैव प्रतीक्षां करोतु। |
|
Wait here till I return. |
|
भवान् जलदेयकं पूरयितुं गच्छति किम्? |
|
Will you go to pay the water bill? |
|
मह्यं धनं ददातु। |
|
Give me money. |
|
एतावत् न पर्याप्तम्। |
|
This much is not enough. |
|
पितः, अद्य परीक्षाशुल्कं दातव्यम् अस्ति। |
|
Father, today I have to pay exam fees. |
|
द्वारं पिदधातु। (द्वारपिधानं करोतु।) |
|
Close the door please. |
|
अवहितमनसा करणीयम्। |
|
Do it sincerely. |
|
श्रद्धया करणीयम्। |
|
It should be done with dedication. |
|
इतः परम् एवं न कर्तव्यम्। |
|
Hereafter don’t act like this. |
|
भवान् वृथा कालहरणं करोति। |
|
You are wasting time. |
ऐ रचनापर अपन मंतव्य ggajendra@videha.com पर पठाउ।
